|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.137. अध्यायः 137
Mahabharata - Udyoga Parva - Chapter Topics
कुन्त्या श्रीकृष्णे अर्जुनादीन्प्रति वक्तव्यसंदेशकथनम् ॥ 1 ॥ श्रीकृष्णस्य स्वरथमारोपितेन कर्णेन सह संभाषणपूर्वकमुपप्लाव्यं प्रत्यागमनम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
कुन्त्युवाच। 5-137-0x(3793)(36492)
अर्जुनं केशव ब्रूयास्त्वयि जाते स्म सूतके।
उपोपविष्टा नारीभिराश्रमे परिवारिता ॥ 5-137-1(36493)
अथान्तरिक्षे वागासीद्दिव्यरूपा मनोरमा ।
सहस्राक्षसमः कुन्ति भविष्यत्येष ते सुतः । 5-137-2(36494)
एष जेष्यति सङ्ग्रामे कुरून्सर्वान्समागतान्।
भीमसेनद्वितीयश्च लोकमुद्वर्तयिष्यति ॥ 5-137-3(36495)
पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत्।
हत्वा कुरूंश्च सङ्ग्रामे वासुदेवसहायवान् ॥ 5-137-4(36496)
पित्र्यमंशं प्रनष्टं च पुनरप्युद्धरिष्यति ।
भ्रातृभिः सहितः श्रीमांस्त्रीन्मेधानाहरिष्यति ॥ 5-137-5(36497)
स सत्यसन्धो बीभत्सुः सव्यसाची यथाच्युत ।
तथा त्वमेव जानासि बलवन्तं दुरासदम् ॥ 5-137-6(36498)
तथा तदस्तु दाशार्ह यथा वागभ्यभाषत ।
धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति ॥ 5-137-7(36499)
त्वं चापि तत्तथा कृष्ण सर्वं संपादयिष्यसि ।
नाहं तदभ्यसूयामि यथा वागभ्यभाषत ॥ 5-137-8(36500)
नमो धर्माय महते धर्मो धारयति प्रजाः ।
एतद्धनञ्जयो वाच्यो नित्योद्युक्तो वृकोदरः ॥ 5-137-9(36501)
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः।
न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः ॥ 5-137-10(36502)
विदिता ते सदा बुद्धिर्भीमस्य न स शाम्यति।
यावदन्तं न कुरुते शत्रूणां शत्रुकर्शनः ॥ 5-137-11(36503)
तावदेव महापबाहुर्निशासु न सुखं लभेत्।
सर्वधऱ्मविशेषज्ञां स्नुषां पाण्डोर्महात्मनः ।
व्रूया माधव कल्याणीं कृष्ण कृष्णां यशस्विनीम् ॥ 5-137-12(36504)
युक्तमेतन्महाभागे कुले जाते यशस्विनि ।
यन्मे पुत्रेषु सर्वेषु यथावत्त्वमवर्तिथाः ॥ 5-137-13(36505)
माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतावुभौ ।
विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि ॥ 5-137-14(36506)
विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः ।
मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम ॥ 5-137-15(36507)
यच्च वः प्रेक्षमाणानां सर्वधर्मोपचायिनाम्।
पाञ्चाली परुषाण्युक्तका को नु तत्क्षन्तुमर्हति ॥ 5-137-16(36508)
न राज्यहरणं दुःखं द्यूते चापि पराजयः।
प्रव्राजनं सुतानां वा न मे तद्दुःखकारणम् ॥ 5-137-17(36509)
यत्र सा बृहती श्यामा सभायां रुदती तदा।
अश्रौषीत्परुषा वाचस्तन्मे दुःखतरं महत् ॥ 5-137-18(36510)
स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा।
नाध्यगच्छत्तदा नाथं कृष्णा नाथवती सती ॥ 5-137-19(36511)
तं वै ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् ।
अर्जुनं पुरुषव्याघ्रं द्रौपद्याः पदवीं चर ॥ 5-137-20(36512)
विदितं हि तवात्यन्तं क्रूद्धाविव यमान्तकौ ।
भीमार्जुनौ नयेतां हि देवानपि परां गतिम् ॥ 5-137-21(36513)
तयोश्चैतदवज्ञानं यत्सा कृष्णा सभागता।
दुःशासनश्च यद्भीमं कटुकान्यभ्यभाषत॥ 5-137-22(36514)
पश्यतां कुरुवीराणां तच्च संस्मारयेः पुनः ।
पाण्डवान्कुशलं पृच्छेः सपुत्रान्कृष्णया सह ॥ 5-137-23(36515)
मां वै कुशलिनीं ब्रूयास्तेषु भूयो जनार्दन ।
अरिष्टं गच्छ पन्थानं पुत्रान्मे प्रतिपालय ॥ 5-137-24(36516)
वैशम्पायन उवाच। 5-137-25x(3794)
अभिवाद्याथ तां कृष्णः कृत्वा चापि प्रदक्षिणम्।
निश्चक्राम महाबाहुः सिंहखेलगतिस्ततः ॥ 5-137-25(36517)
ततो विसर्जयामास भीष्मादीन्कुरुपुङ्गवान्।
आरोप्याथ रथे कर्णं प्रायात्सात्यकिना सह ॥ 5-137-26(36518)
ततः प्रयाते दाशार्हे कुरवः सङ्गता मिथः ।
जजल्पुर्महदाश्चर्यं केशवे परमाद्भुतम् ॥ 5-137-27(36519)
प्रमूढा पृथिवी सर्वा मृत्युपाशवशीकृता ।
दुर्योधनस्य बालिश्यान्नैतदस्तीति चाब्रुवन् ॥ 5-137-28(36520)
ततो निर्याय नगरात्प्रययौ पुरुषोत्तमः ।
मन्त्रयामास च तदा कर्णेन सुचिरं सह ॥ 5-137-29(36521)
विसर्जयित्वा राधेयं सर्वयादवनन्दनः।
ततो जवेन महता तूर्णमश्वानचोदयत् ॥ 5-137-30(36522)
ते पिबन्त इवाकाशं दारुकेण प्रचोदिताः ।
हया जग्मुर्महावेगा मनोमारुतरंहसः ॥ 5-137-31(36523)
ते व्यतीत्य महाध्वानं क्षिप्रं श्येना इवाशुगाः ।
उच्चैर्जग्मुरुपप्लाव्यं शार्ङ्गधन्वानमावहन् ॥ ॥ 5-137-32(36524)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि सप्तत्रिंशदधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-137-3 उद्वर्तयिष्यति आकुलीकरिष्यति। लोकं शत्रुजनम् ॥ 5-137-5 मेधान् अश्वमेधान् ॥ 5-137-16 धर्मोपचायिनां धर्मवर्धनशीलानाम् ॥ 5-137-20 पदवीं चर मार्गमनुसर ॥ 5-137-28 नैतदस्ति। राष्ट्रमिति शेषः ॥ 5-137-29 निर्याय निर्गत्य ॥ 5-137-32 उपप्लाव्यं विराटनगरम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|